पृष्ठम्:भारतानुवर्णनम्.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ जनानाम् आबालवृद्धम् अपरिमितोऽनुराग आसीत् अस्य विचित्राः कथा भक्तिपूर्वम् अद्यापि हिन्दवो गायन्ति । १ ३०४६ तमे कलिवर्षे विक्रमाब्दस्यारम्भात् स एव कालो विक्रादित्यस्य भवितुम् अर्हति । किन्तु चरितग्रन्थकारसंवादात् सप्तत्रिंशं कलिवर्षशतकं त स्य समयम् आधुनिका ऊहन्ते ॥ शातवाहनः. आसीत् कुन्तलेषु प्रतिष्ठानपुरे शातवाहनो नाम राजा । एष शौर्ये विक्रमादित्याद् अन्यूनः श कानां जेता च बभूव । विदुष्याः स्वपत्न्या मलयवत्या उपदेशात संस्कृताभ्यासे बलवद् एष तृषितोऽभवत् । शिक्षित श्वायं कालापव्याकरणकत्री शर्ववर्मणा पाण्डि- त्यम् अचिरेण प्रतिपेदे । उदारसरसार्थानां सुभाषिता- नां कोशं गाथासप्तशर्ती नाम प्राकृतभाषामयीम् अयं जग्रन्थ । इमां हर्षचरिते भट्टबाणः स्तौति । - 1. षट्चत्वारिंशदधिकत्रिसहस्रतमे 2 शत्रुञ्जयमाहात्म्यादिग्रन्था- नुसारात् Digfized by Google