पृष्ठम्:भारतानुवर्णनम्.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्कथायाः कर्ता गुणाढ्योऽस्य सभां भूषया- म्बभूव । कविवत्सलोऽसौ राजा श्रीपालितनामानं म हाकवि गुर्जरेषु राजानं चकार । अस्य 'शालो' 'हालः ' शालिवाहन ' आढ्यराज ' इत्यपि नामानि सन्ति । द्वात्रिंशे कलि- वर्षीये शतके शालिवाहन शकाब्दस्यारम्भात् तमेव कालं शातवाहनस्य मन्यन्ते । तेनायं विक्रमादित्यस्य समासन्नकाल इति फलति, यद्येकत्रिंशं वर्षशतकं वि क्रमादित्यस्य निर्विवादं स्यात् । 6 अयं ज्योतिर्विदो ब्राह्मणात् कुलालकन्यायां जात इति, विक्रमादित्यं वृद्धं बाल्ये जितवान् इति च किञ्चिद् ऐतिह्यम् अस्ति । परं तु तत्र सम्प्रतिपन्नं प्रमाणं न पश्यामः । सम्प्रति महिषकराव्यस्य पालका राजानः शालिवाहनवंश्या इति प्रसिद्धिरस्ति ॥ भोजः. अग्निकुला नाम केचित् 'परमारा:' 'पुरिहराः ' 1. अयम् अलङ्कारसरस्वतीकण्ठाभरणे स्मृतः 2. (A.D. 78). १३ Digitized by Google