पृष्ठम्:भारतानुवर्णनम्.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चालूक्या:' 'गोहनाः' इति चतसृभिः शाखाभिः प्रसिद्धा बभूवुः । तत्र परमाराः शूरतमाः, यद्वंश्यं न वसाहसाङ्कं नाम राजानम् अधिकृत्य नवसाहसाङ्क - चरिताख्यं महाकाव्यं परिमलकालिदासो रचयाम्ब- भूव । परमाराणां राजधान्युज्जयिनी चासीद्, धारा च । परमाराणां वंशे भोजनामानस्त्रयो राजान 9 आसन् । ३६७७ तमे कलिवर्षे प्रथमो भोजः स्थितः; २ ३७६७ तमे द्वितीयः; ४१४६ तमे तृतीयः । तत्र तृ तीयभोजो मुञ्जस्य पुत्रः । भोजकृतिरिति प्रसिद्धं स- रस्वतीकण्ठाभरणम् एकं व्याकरणेऽपरम् अलङ्कारे चास्ति; तथा शृङ्गारप्रकाशोऽपि । सरस्वतीकण्ठाभर णं तृतीयभोजात् प्राचीनेषु ग्रन्थेषु स्मर्यते । अतस्तृ- तीयभोज एतत्कर्ता न सम्भाव्यते । संस्कृतपोषणे विदुषाम् आदरणे च भोजो विक्रमार्कम् अनुचकार || 1. सससप्तत्युत्तरषट्शताधिकत्रिसहस्रतमे. 2. सप्तषष्ट्युत्तरसप्त- शताधिक त्रिसहस्रतमे. 3. षट्चत्वारिंशदधिकशतोत्तरचतुस्सहस्रतमे । Digitized by Google