पृष्ठम्:भारतानुवर्णनम्.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ श्रीहर्षः ३६८० तमे कलिवर्षे श्रीकण्ठनाम्नि जनपदे स्थाण्वीश्वराख्ये नगरे प्रभाकरवर्धनो नाम राजा बभूव । तस्य यशोवत्यां राज्यवर्धनो हर्षवर्धन इति च 'हौ पुत्रौ राज्यश्रीरित्येका कन्या चाजायन्त । तस्य जामातुर्गृहवर्मणो हन्तारं मालवेश्वरं राज्यवर्धनो नि- जघान । कर्णसुवर्णपतिना गौडाधिपेन शशाङ्कनरे- "न्द्रगुप्तेन राज्यवर्धने निहते ३७१० तमे वर्षे हर्षवर्ध- नः सिंहासनं भेजे । अस्य शीलादित्य इति कुमार- राज इति च नामनी आस्ताम् । अनेन वीरेण गौ- 'डाधिपजयाय प्रस्थितेन कामरूपाधिपो भास्करवर्मा • सख्यं बबन्ध | प्रतापे विदुषाम् आदरणे च विक्रमा- • र्कतुल्यः श्रीहर्षोऽभवत् । अनेन बुद्धमतम् आदृतम् आसीत् । कान्यकुब्जमध्यस्य वशे स्थितम् | . महाकविर्भट्टबाणोऽस्य सभाया आभरणं ब- 1. अशीत्युत्तरषट्शताधिकत्रिसहस्रतमे. 2. दशोत्तरसप्तशता- धिकत्रिसहस्रतमे । Digitzed by Google