पृष्ठम्:भारतानुवर्णनम्.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० 9 भूव । सोऽयं महाप्रभावो हर्षवर्धनः ३७५२ तमे वर्षे लोकान्तरं जगाम | अथ पञ्चाशति वर्षेष्वतीतेषु तद्वंश्यं यशोव- र्माणं कश्मीरराजो ललितादित्यो जिगाय; यशोवर्म- णा लालितं च भवभूति महाकविं स्वयं पूजयामास ॥ वलभिराजा राजपुत्राश्च पुरा क्षत्रपा नाम केऽपि राजानः कनिष्कवं- श्यानां राज्ञाम् अधश्चराः सन्तः सौराष्ट्रदेशम् अपा- लयन् । तत आन्ध्रेषु मगधाञ्छासत्सु ते सौराष्ट्रप- तयः स्वतन्त्रा बभूवुः । क्षत्रपेषु क्षीणेषु भटार्को नाम सेनापतिर्गुर्जरान् वशे चकार । तस्य राजधानी वल- भिर्नाम । तदंश्या वलभिराजा इत्युच्यन्ते । कलिव- र्षीयात् षट्त्रिंशात् शतकात् प्रभृति आ एकोनच- त्वारिंशात् ते सौराष्ट्रराज्यम् अपालयन् । तेषाम् अवसितौ राजपुत्रास्तद्राज्यपतयोऽभ- 1. द्विपञ्चाशदधिकसप्तशतोत्तरत्रिसहस्रतमे । Digitized by Google