पृष्ठम्:भारतानुवर्णनम्.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वन् । ते ह्यग्निकुण्डाद् उत्पन्नाः सुक्षत्रिया इति प्रती- तिः । स्वभावाद् उद्यमिनो बलिनो धीराश्च ते मध्य- राज्यान्याक्रम्य बुद्धमतं सर्वतो निरास्थन्, हिन्दुमतं ब्राह्मणमहिमानं च सर्वत्र प्रतिष्ठापयामासुः । राजपुत्राणां प्रभावे दीप्यमाने वैदेशिकैर्मह- 9 २ ३ म्मदीयैः ३८१३ तमे ३९७३ तमे ४१०३ तमे च क लिवर्षे भारतस्याक्रमणं कृतम् । प्राप्तविजयानां च म हम्मदीयानां वशे भारताधिपत्यं षट् शतानि वत्स- रान् स्थितम् आसीत् ॥ - शङ्कराचार्यः कुमारिलभट्टश्च शङ्कराचार्य एकोनचत्वारिंशत्तमे वर्षशतके केरलेषु वञ्चिमण्डलान्तर्गते कालटिक्षेत्रे जन्म लेभे | शिशुत्वेऽपि प्रतिभाविशेषो, विषयवैराग्यं, गाम्भीर्यम् इत्येतानि महानुभावताया लक्षणानि तस्मिन् प्रत्य- क्षाण्यासन् । 1. त्रयोदशाधिकाष्टशतोत्तरत्रिसहस्रतमे 2 त्रिसप्तत्युत्तरनवश- ताधिकत्रिसहस्रतमे. 3. व्यधिकशतोत्तरचतुस्सहस्रतमे. 4. Kaladi in Travancore state.. Digitized by Google