पृष्ठम्:भारतानुवर्णनम्.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ स किलाष्टमे वयसि चतुर्थम् आश्रमं स्वीकृ- त्य बदरिकाश्रमे गोविन्दभगवत्पादाद् गौडपादशि- प्याद् ब्रह्मविद्याम् अधिगत्य बहुभिर्व्याख्यानिबन्धैर- द्वैतशास्त्रं प्रपञ्चयामास । देशेदेशे सञ्चरन्नसौ प्रब- लान् बौद्धन अन्यांश्च वादे विजित्य ब्राह्मणमतं ग्राहयामास । अष्टात्रिंशे वर्षशतके कुमारिलभट्टो नाम क र्मपारम्यवादी पूर्वमीमांसां प्रचलयाञ्चकार यस्य कृति- स्तन्त्रवार्तिकम् इति प्राग् अवदाम । आभ्यां कर्मब्रह्ममीमांसकाभ्यां ब्राह्मणमतविरु- द्धं मतं, विशेषेण तु बौद्धमतम् अस्तं गमितम् । ग्रन्थेषु च परमतानि शतशो युक्तिभिः खण्डितानि ॥ वङ्गराजा उत्कलराजाश्च. अष्टाविंशे वर्षशतके वङ्गेषूत्कलेषु च प्रबला- नि राज्यान्यासन् | अशोकस्य समये तत्र बौद्धमतं प्रचरितम् । हियून्त्साङ्गस्य काले वङ्गेषु पुण्ड्रं, समतटं, कामरूपं, ताम्रलिप्ती, कर्णसुवर्णम् इति पञ्चसु राज्येषु पञ्च राजानो बभूवुः । Digfized by Google