पृष्ठम्:भारतानुवर्णनम्.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४. शं बुभुजुः । ततस्तत्र मातृगुप्तो विक्रमादित्येन राज्या- धिकारे स्थापितः । मातृगुप्तात् प्रभृति षट्पञ्चाशद् राजानः षट्- शतीं वर्षाणां कश्मीरान् अपालयन् । तेषु प्रवरसेनो ललितादित्यो जयापीडोऽवन्तिवर्मा च प्रसिद्धाः । प्रवरसेनः शूरश्च महाकविश्वाभवत् । अनेन सेतुबन्धाख्यं प्राकृत काव्यं विरचितं, यद् भट्टबाणो हर्षचरिते स्तौति । १ ललितादित्यो यशोवर्मणो जेता भवभूतिकवे- र्बहुमन्ता च प्राग् उक्तः । ३७९९ तमाद् वर्षात् प्र- भृति स षट्त्रिंशतं वर्षाणि राज्यं शास्ति स्म । जयापीडो महाभाष्यं ततइतो विशीर्ण प्रय- त्लाद् विद्वद्भिः संग्राहयामास । एष ३८४७ तमाद् व र्षात् प्रभृति ३८७८ तमवर्षावधि राज्यम् अशिषत् । ३ 1. एकोनाष्टशताधिकत्रिसहस्त्रतमात्. 2. सप्तचत्वारिंशदुत्तरा- ष्टशताधिकत्रिसहस्त्रतमात् 3. अष्टसप्तत्यधिकाष्टशतोत्तरत्रिसहस्र- समवर्षावधि । . Digitized by Google