पृष्ठम्:भारतानुवर्णनम्.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ अवन्तिवर्मा ३९५७ तमाद् वर्षात् प्रभृति अष्टाविंशति वर्षाणि राज्यम् अकारयत् । ततः सप्तचत्वारिंशे वर्षशतके कश्मीरराज्यं महम्मदीयेष्वधीनम् अभवत् । कान्यकब्जपतयः. पञ्चालदेशेनोपश्लिष्टं 'कान्यकुब्जम्' इत्युक्तम् अस्तात् । गुप्तै राजभिरिदं राज्यम् उत्कलावधि विस्तारितम् आसीत् । एकचत्वारिंशे वर्षशतके तत्र प्रभुत्वं वहतः कुतश्चिद् राजपुत्रवंश्याद् भूपतेस्तद्राज्यं महम्मदीयै- रपहृतं बभूव । ततो राजपुत्रा राजस्थानदेशं शरणं गताः ॥ चालूक्याः. एकत्रिशाद् वर्षशतकात् परत आमगधम् अप्रतिहतशासनानाम् आन्ध्राणां प्रभावे क्रमेणास्तं 1. सप्तपञ्चाशदधिकनवशतोत्तरत्रिसहस्रनमात् । १४ Digitized by Google