पृष्ठम्:भारतानुवर्णनम्.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ • चतुश्चत्वारिंशे वर्षशत के दक्षिणखण्डम् अखि- लं काकतीयेष्वायत्तम् अभवत् । तेऽपि क्रमेण मह- म्मदीयैः पराजिताः ॥ बुक्कव॑श्याः क्षीणेषु बल्लालेषु बुक्कराजो हरिहर इति च द्वौ राजानौ प्रबलौ बभूवतुः । वेदभाष्यकारः सर्वतन्त्र - स्वतन्त्री माधवस्तयोर्मन्त्री बभूव, यः किला परत्रयसि यतिभावम् आपद्य विद्यारण्यनाम्नश्र्यशृङ्गपुरे शङ्करा- चार्यपीठं भेजे । तयोश्च राज्ञोविजयनगरं राजधानी बभूव । १ महम्मदीयसख्यात् तद्वंशे द्विशतवर्षाधिकं कालं राज्यम् अनुवृत्तम् आसीत् । ४६६५ तमे वर्षे तदपि महम्मदीयैः कबलितम् ॥ 1. पञ्चषष्ट्युत्तरषद्शताधिकचतुस्सहस्रत मे. Digitized by Google