पृष्ठम्:भारतानुवर्णनम्.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० कथा—गद्यकाव्यं विस्तृतम् अनेकैरुच्छ्रासैः सहितम् ‘आख्यायिका' इत्युच्यते; 'कथा' इति च यथा चासवदत्तादि ॥ चम्पू:—गद्यपद्यमयं काव्यं 'चम्पूः' इत्यु- ब्यते; यथा चम्पुरामायणादि ॥ + - श्रव्यम् – महाकाव्यं कथा चम्पूरित्येतत् स र्वम् अभिनेयार्थं न भवति; किन्तु श्रवणेन केवलम् आह्लादं जनयति । अतस्तच्छ्रव्यम् इत्युच्यते ॥ दृश्यम् -- यस्य काव्यस्यार्था नटैरभिनेया भवन्ति, तद् ‘दृश्यम्' इत्युच्यते । दृश्यस्य च 'ना- टकं' 'प्रकरणम्' इत्यादयो बहवो भेदा भवन्ति । तेषां मध्ये नाटकं प्रकरणम् इति द्वयं समग्राङ्गतया प्रधानं गण्यते । यत्रेतिवृत्तं प्रसिद्धं भवति, तन्नाटकम् आहुः; यथा शाकुन्तलादि । यत्रेतिवृत्तं कल्पितं भवति, तत् प्रकरणं वदन्ति; यथा मालतीमाधवादि || 1. To be adapted to the stage. 2. Story. Digitized by Google