१११ काव्यप्रमेयम् -- उच्चावचा. लोकस्वभावा लोकनीतयो राजनीतय उत्तमपुरुषचरितानि सदु- पदेशाच काव्यस्य विषयाः । तेषां च प्रतिपादनभ- जन्यः काव्येषु शास्त्रवद् दुरवगाहा न भवन्ति । कि- न्तु व्युत्पन्नानां व्युत्पत्सूनां च मनस्तुल्यं रञ्जयितुं ताः प्रभवन्ति ॥ वक्रोक्तयः -- नानारूपा हि चमत्कारकारि- ण्यः कवीनाम् उक्तयो भवन्ति । ता 'वक्रोक्तय' इ- त्युच्यन्ते । तत्र काचिद् वक्रोक्तिः कश्चिद् अर्थ विस्पष्टं वदति, ततोऽन्यं तु कञ्चिद् अर्थ सूचयति केवलम् । तत्र सूयोऽर्थो व्यङ्ग्य इत्युच्यते; तदन्यो वाच्य इ- ति । यस्मिन् कविवाक्ये व्यङ्गयोऽर्थः प्रधानं, तद् 'ध्वनिकाव्यम्' आहुः; 'उत्तमकाव्यम्' इति च ॥ यथा-- गोदावर्यास्तीरे दृप्तः प्रतिवसति कोऽपि शा- र्दूलः । 1. बहुभेवा:. 2. Not easily comperehensible. 3. Desirous to loarn 4. Surprising. 5. Liable to insinuate. Digitized by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/१२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति