पृष्ठम्:भारतानुवर्णनम्.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ आचार्येषु मुख्यास्तावद् -- भामहो वामनो दण्डी रुद्रटो भोज उद्भटः । आनन्दो महिमा रुय्यमम्मटौ धनिकस्तथा ॥ काव्यगुणा:. विचित्राः खलु प्रतिवस्तु स्वभावा भवन्ति । अन्येऽन्ये ह्यङ्गसन्निवेशा अप्राणिनाम्; अन्येऽन्ये प्रा- णिनाम् । हर्षे विषादे भये लज्जायां कारणान्तरे वा प्राणिनाम् आकारा भिद्यन्ते, क्रिया भिद्यन्ते, चित्त- वृत्तयो भिद्यन्ते । सन्तोऽप्येतेषां स्वभावाः सूक्ष्मसू- क्ष्मतया कतिपयानामेव कवीनां बुद्धौ प्रतिफलन्ति । तेषाम् एषां वर्णनं काव्यस्यैको गुणः । केचिद् अर्थाः सुप्रसिद्धयोपमासामग्रथा बुद्धौ प्रतिष्ठाप्यन्ते; केचित् स्पष्टम् उक्तैर्व्यङ्गन्यैर्वा हेतुभिरु- पपाद्यन्ते । इत्येवञ्जातीयको द्वितीयो गुणः ॥ एष तृतीयो गुणो -- यत् संवादेषु तथात्रि- 1. महिमभट्टः व्यक्तिविवेकस्य कर्त्तायम् । Digitized by Google