पृष्ठम्:भारतानुवर्णनम्.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ श्रुतमात्रे काव्येऽर्थानां पुर इव परिस्फुरणम्, अंशे परिशीलिते शेषांशानां परिशीलनायाम् उत्क- ण्ठाजननं, चर्वितचर्वणे ऽप्यास्वादस्य नवीभाव इत्य- परे त्रयो गुणाः काव्यस्य भवन्ति । , प्रसिद्धार्थत्वं, कोमलत्वम् अदीर्घसमासता च पदानाम् औत्सर्गिको गुणो भवति ॥ अयमपि पदानां गुणो- - यत् तानि पर्यायप- रिवृत्ति स्थानपरिवृत्तिं च न सहन्ते । 'अत्रेदमेवोचितं नान्यद्' इति प्रतिपदमित्र प्रत्यर्थं प्रतिभासः परमो गुणः काव्यस्य भवति । एभिर्गुणैर्युक्तं काव्यं प्रशस्तम् इति निर्णयः || कवयः काव्यानि च. कालिदासः -- कालिदासो विक्रमादित्यस्य समकाल इति प्राग् अवोचाम । अस्य कृतयो 'रघु- वंशः’ ‘कुमारसम्भवं’ ‘मेघदूतम्' इति त्रीणि श्र व्यकाव्यानि; 'मालविकाग्निमित्रं' 'विक्रमोर्वशीयम्' 1. Substitution of synonyurcs. 2 Transposition. Digitzed by Google