पृष्ठम्:भारतानुवर्णनम्.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० हारं वामनेन, चत्वारिंशस्य वर्षशतकस्योत्तरार्धे स्थि- तेन ध्वन्यालोककृतानन्दवर्धनेन च स्मर्यते || च भारविः – भारविः 'किरातार्जुनीयं' नाम महाकाव्यं प्रणीतवान् । अस्मिन्नर्थाः शब्दा रचना वा यत्र यादृशा उचिताः, तत्र तादृशा एवाहताः । पाकस्तु कठिनप्रायः । अस्य कवेः सप्तत्रिशे कलिव- र्षशतके सत्तां वदन्ति || भट्टिः -- भट्टरष्टात्रिंशे कलिवर्षशतके वेल- भ्यां श्रीधरसेनस्य राज्ञः सभां भूषयाम्बभूव । अस्य कृतिर्महाकाव्यं 'रावणवधं', यद् भ- ट्टिकाव्यम् इति विश्रुतम् । यद्यप्यत्र काव्यगुणा न बहुलाः सन्ति, तथापि वैयाकरणानाम् इदम् अतीव रसं जनयति । अत्र हि पाणिनिसूत्राणां लक्ष्याणि काण्डश उदाहृतानि । शतकत्रयकर्ता भर्तृहरिरस्माद् भट्टर्न मिद्यत इति कश्चिद् अहः || 1. बलभद्रपुरी । Digitized by Google