पृष्ठम्:भारतानुवर्णनम्.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१ माघः -- अस्य कृतिः 'शिशुपालवधं' नाम महाकाव्यम् । अयं शब्दरचनाभङ्गया मारविम् अ तिशेते । अस्य शब्दचित्रे पक्षपातो भारव्यपेक्षयाधि- को दृश्यते । कवितायाः पाके भारविं प्रायेणायम् अ नुकरोति । अयं धनिको वदान्यो भोजराजस्य मित्रम् आसीद् इति प्रवादोऽस्ति । किन्त्वेष भोजराजः प्र- थमो द्वितीयो वा स्याद्, यस्मान्माघं तृतीयभोजात् प्राचीनो वामनः स्मृतवान् || श्रीहर्षः - श्रीहर्षो नाम कश्चिद् ब्राह्मणः शास्त्रेषु निपुणो महाकविस्त्रिचत्वारिंशे कलिवर्षशत- के कान्यकुब्जपतेः सदसि स्थितः । 'नैषधचरितं ' नाम महाकाव्यम् अस्य कृतिः । सतामसतां वार्था- नाम उल्लेखे भारविमाघावयम् अतिशेते । पाकः पुन: रस्य वाचाम् आपादचूडं कठिनः । अस्य कृतयोऽन्या अपि सन्ति । —— दण्डी - - अष्टात्रिंशस्य वर्षशतकस्यादौ दण्डी ‘दशकुमारचरितं' नाम गद्यकाव्यं विरचितवान् । राजकुमाराणां दशानाम् अद्भुता वृत्तान्ता अत्र प्रति- Digitized by Google