पृष्ठम्:भारतानुवर्णनम्.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२३ इदं सप्तत्रिशे वर्षशतके पारसीकभाषायां त- तो वैनायुभाषायां च संक्रान्तम् आसीत् । द्वाचत्वा- रिंशस्य वर्षशतकस्याष्टमे दशके वनायुभाषासकाशाद् यैवनभाषां ततो रोमकभाषां च पञ्चतन्त्रम् उपसंक्रा- मति स्म । ४३५० तमे वर्षे ततो हीब्रुभाषायां स्पैनभा- षायां क्रमेणान्यासु च यौरोपभाषासु तत् प्रसृप्तं बभूव ॥ ४ चम्पुरामायणम् –‘चम्पुरामायणं' भोज- राजकृतम् इति प्रसिद्धिरस्ति । युद्धोत्तरकाण्डवर्जम् अत्र रामायणस्य कथा संक्षिप्य वर्ण्यते । इदं सुकु- मारसरसपाकानां गद्यानां, विशेषेण तु पद्यानां गुण- महिम्ना सर्वाश्चम्पूरतिशेते ॥ - गीतगोविन्दम् – किमपि गीतकाव्यं 'गी- तगोविन्दं ' नाम । सरसैः श्लोकैर्गीतिभिश्च रागताला- नुगुणाभिरुपेतं विलक्षणम् अस्य काव्यस्य प्रस्थानम् । अत्र श्रीकृष्णस्य शृङ्गारलीलाः प्रतिपाद्यन्ते । अत्र श ब्दा: शब्दरचनाश्च स्वभावाद् अतिकोमलाः । ते य- 1. Arabic. 2. Greek. 3. Latin. 4. पञ्चाशदुत्तरत्रिशताधि- कचतुम्सहस्रतमे 5 Hebrew. 6. Spanish. Digitzed by Google