पृष्ठम्:भारतानुवर्णनम्.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ ( प्राकृतम् - प्रकृतेः संस्कृताद् आगतं प्राकृ- तम् इत्युच्यते । प्राकृतव्याकरणं विक्रमादित्यलालि- तेषु नवरत्नेष्वन्यतमेन वररुचिना निर्मितम् अस्ति । स प्राकृतभाषाम् इत्थं विभजते -- माहाराष्ट्री शौरसे- नी पैशाची मागधीति । आसु माहाराष्ट्री प्रशस्ता भवति । यद् आह दण्डी– 'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः' इति । आद्ययोः संस्कृतम्, अ- ·न्त्ययोः शौरसेनी च प्रकृतिः । अस्ति पाली नाम भाषा । सापि प्राकृतविशेष: संस्कृताद् उत्पद्य सह- त्राधिकान् वत्सरान् प्रचरिता बभूव । C सत्यपि प्राकृतस्य प्रचारे कालिदासादिकाले कुलीनैः संस्कृतम् एव व्यवहृतम् आसीत् । सोऽयं भाषाणां व्यवहारस्वभावः प्राचीनेषु नाटकेषु प्रका- शते । अत्यन्तसाम्याद् आसां प्राकृतभाषाणां संस्कृते न सह निवेशनं शोभावहम् इति कृत्वा स एव प्रा- चीनः सम्प्रदाय आहतोऽर्वाचीनेषु नाटकेषु । तदेवम् अतिप्रसिद्धाः साहित्यशास्त्रकाराः क- वयः काव्यग्रन्थाश्च निर्दिष्टाः । अन्येऽपि तु प्रशंसा- र्हा बहवः सन्ति । Digitized by Google