पृष्ठम्:भारतानुवर्णनम्.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपसंहारः एतावता प्रबन्धेनैतद् उक्तं भवति -- आर्या . बहुवर्षसहस्रेभ्यः प्राग् भारतखण्डं प्रविष्टाः; तत्र स्थि- तान् मृगनिर्विशेषान् हिंस्रान् जनान् दमयामासुः; ग्रामनगरजनपदान् निरवर्तयन् ; कृषिं शिल्पं वाणि- ज्यं च प्रवर्तयामासुः; संस्कृतभाषया व्यवजह्रुः; ज्यौ - तिषं गणितम् अन्यानि च सूक्ष्माणि शास्त्रतत्त्वानि स्वयम् उपज्ञाय प्राचिन्वन् । वृत्तिभेदेन ते जातिभेदं वृत्तिसौष्ठवाय व्यव स्थापयामासुः; चातुर्वर्ण्यम् एककुडुम्बदृष्ट्या परस्पर- हितानि कर्माण्याचरन्तः पालयामासुः; राजनीतिनि- यमान् ऊर्जस्वलान् अन्वतिष्ठन् । ते सर्वव्यतिक्रमाङ्कुशम् ईश्वरविश्वासम् अति- दृढम् अवललम्बिरे; महिमातिशयवतो भावान् ना- नानामभिरुपासीना अपि तेष्वनुस्यूतस्वरूपम् एकमे- वेश्वरं भावयाम्बभूवुः; हिंसां पौंश्चल्यं परदाररति मद्य- 1. पुंश्चल्या भावः पौंश्चल्यम्= Harlotry. Digitized by Google