पृष्ठम्:भारतानुवर्णनम्.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ पानं चात्यन्तं निनिन्दुः; वैदिकान् समांसयज्ञान् मां- सकामम् उद्दिश्य प्रवृत्तान् मन्यमानाः कायक्लेशपूर्वी मानसीं भावनामेव पारमार्थिकम् ईश्वरभजनं निश्चि क्युः ॥ वेदमूलकम् इतिहासं कल्पसूत्रं स्मृति दर्शनं पुराणं वैद्यकं च ते जग्रन्थुः; क्रमेण भारतम् अखिलम् आक्रम्य विदेशेष्वपि स्थलपथेन जलपथेन च संव्य- वहारं चक्रुः । चातुर्वर्ण्यविषयायाम् एककुडुम्बदृष्टयै कारणा- न्तरैः क्षीणायां बुद्धमते च तत्कालाश्वासदायिनि ल. ब्धप्रचारे वर्णबलं हिन्दुमतं च शिथिलं बभूव । दा- रुणि लोहे शिलायां चाद्भुतं शिल्पम् आर्याणां स्वो- पज्ञं बुद्धमतकाल आसीत् । शकयवनादिभिर्वर्णस ङ्करोऽपि तेष्ववसरेषु कचित् क्वचित् समजनि । आ- र्यदृष्टानि बहूनि विज्ञानानि परम्परया विदेशेष्वपि प दम् अलभन्त । 1. Transaction. Digitized by Google