पृष्ठम्:भारतानुवर्णनम्.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ शक्रादिभिर्व्याकुलितम् आर्याणां राज्याधि- कारं विक्रमादित्यादयः प्रतिष्ठां निन्युः । ते शङ्कराचा र्यादयश्च बुद्धमतम् अभिभूय ब्राह्मणमतं ग्लानम् अ भ्युत्थापयामासुः । नृत्तगीतवाद्यानामिव साहित्यस्या- पि स्सम् आर्याः सम्यग् आस्वादयांचक्रुः । अन्ते च भारतसाम्राज्यं महम्मदीयान् जगामेति । --- अस्ति तु प्राग् उपदर्शिते कालविभागे वि- वादः । तथा हि - - कलिवर्षशतकस्य द्वादशस्य स सदशस्य चान्तरालं हि वेदकालम् ऊहन्ते यौरोपाः पण्डितवराः । पञ्चसहस्रवर्षवृद्धं तु वेदं नवीना हि- न्दुपण्डिता मन्यन्ते । स्वमतभक्ताः पुनरार्यहिन्दवः प्रतियन्ति - - वेदस्य काल इयत्तया परिच्छेत्तुं न श क्यते । वेदस्तावद् अनादिरीश्वरनिर्मितः । कालत्रय- वेदिनो निग्रहानुग्रहशक्ता महानुभावा महर्षयः स्थि- तपूर्वमेव वेदम् आर्षेण चक्षुषा दृष्टवन्तः । तेन्मूला- नेव सर्वान् धर्मान् सर्वाणि च शास्त्रतत्त्वानि तेदुत्त- रकालिकी महर्षिपरम्परा प्रपञ्चयांचकार । इति । 1. वेदमूलान्. 2. तेषां (महर्षीणाम् ) उत्तरकाले भवा । Digitized by Google