पृष्ठम्:भारतानुवर्णनम्.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ भारतानुवर्णनम् आधुनिकस्थितिर्नाम तृतीयो भागः. उपोद्घातः -- वर्षशतानि बहू ने महम्मदी- या म्लेच्छतुरुष्कशब्दिता भारतराज्यम् अभुञ्जतेत्यव- दाम | तेष्ववसरेषु हिन्दूनां मतजात्याचारविषयं स्वा- तन्त्र्यं लुप्तप्रायम् आसीत् । तद् एतद् आङ्गलसाम्रा- ज्यकालेऽस्मिन् प्रेत्यापन्नम् अस्ति । आङ्गला हि नी- तिम् अनुरुन्धाना राज्यं पालयन्ति । विज्ञानस्य नवनवस्य गवेषणायां स्थितस्य पोषणे च प्रतिभा समुद्यमशीलता वातिचिरात् प्रागेव हिन्दुवर्ग यद्यपि परिजहार, तथापि बुद्धिवैभवं दैव- भक्तो राजभक्तिरिति त्रयो गुणाः कुलदायभूता अ द्यापि हिन्दून् न त्यजन्ति । विद्याभ्यासे चाद्यत्वे हि- न्दवः श्रद्धां भजन्ति; पाण्डित्यं च प्रशंसनीयं बहुप्र कारं यौरोपशास्त्रेष्वर्जयन्ति । किन्तु काचिद् अलसता परम् आधुनिकेषु हिन्दुषु दृश्यते -- यद् एते विद्यमानेषु विद्यायाः फ- 1. Recovered. Dighazed by Google