पृष्ठम्:भारतानुवर्णनम्.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१ लेषु बहुषु राजकीयाधिकारम् एकमेव भूयिष्ठाः का- मयन्ते, अर्थिभूयस्त्वाच्च तद्लाभे निर्विद्यन्ते । अपि च । अनल्पसुषमेष्वल्पमूल्येषु यौरोपशि- ल्पेषु भारते बहुलम् उपयुज्यमानेषु, सुगमे द्वीपान्तरे, सति च बुद्धिवैभवे यौरोपवैज्ञानिकेभ्यस्तदीयशिल्प- रीतिम् अभ्यसितुम् एते गणशो न यतन्ते । वाणि- ज्यं वैनकृषिं च सम्भूयसमुत्थानैर्भूरिभिरिमे नाभित्र- र्धयन्ति । इमाम् अलसताम् एकाम् अपहाय नान्यद् आधुनिकहिन्दूनां वृत्तिषु महद् अवद्यं पश्यामः ॥ पौराणिकम् आर्यमतम्. सर्वेश्वरस्य नाम शक्तिस्त्रिविधा भवति--सृ ष्टिशक्तिः स्थितिशक्तिः संहारशक्तिरिति । तासु सृ- ष्टिशक्तेः प्राधान्याद् एक एवेश्वरो ब्रह्मेत्युच्यते, स्थि- तिशक्तेः प्राधान्याद् विष्णुरित्युच्यते, संहारशक्तेः प्रा- धान्याद् रुद्र इत्युच्यते । 1. अनल्पा सुषमा शोभातिशयो येषां तेषु. 2. For:st cultiva- tion. 3. Joint enterprises. Digitized Digraded by Google