पृष्ठम्:भारतानुवर्णनम्.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ पारमार्थिकम् अखण्डपरिपूर्णम् ईश्वरस्य रूपं ध्यातुं जनः शक्तो भवति; तथा ध्यानेन च नित्यसुखरूप मोक्षं प्राप्नोति । अपि च । व्यापारसमये तूष्णीमवस्थानसमये वा सर्वदैव जनेनेश्वरः स्मर्तव्यः । प्रायेण हि जनो राजदण्डभयाद् वा जनभयाद् वा पापानि प्रकटम् अनाचरन् दृश्यते; न स्वभावात् । रहसि पापकारिणं प्रति त राजदण्डनीतेर्जनस्य वा न कापि शक्तिर- स्ति । यदि रहस्यपि पापकर्मणां द्रष्टा सर्वसाक्षी क चिद् अस्तीति प्रत्ययो भवेत् तदा नातीव जनः पापम् आचरेद् इति तेषाम् अभिसन्धिः । , तदिदम् औपनिषदे मते पर्यवसितम् इतिहा- सपुराणदृष्टं मतम् अद्यत्वे हिन्दव आद्रियन्ते । य- त्वतिस्तुतिरूपम् अतिनिन्दारूपं वा चित्रम् अर्थजा- तम् इतिहासपुराणेषु पश्यामः, तत् सर्वे मन्दबुद्धन् प्रति कर्तव्येषु प्ररोचनार्थम् अकर्तव्येषु प्रद्वेषार्थे च प्रवृत्तं वेदितव्यम् || 1. हिन्दूनाम् । Digezed by Google