पृष्ठम्:भारतानुवर्णनम्.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५ सा क्वचित् कचिद् दृश्यते । केषुचिद् देवालयेषु ना- नाकारा उत्सवप्रतिमा उपयुज्यन्ते । विष्णोर्मुख्या परिवारदेवता गरुडः, शिवस्य तु नन्दिकेश्वरः । अनयोः प्रतिमाभिमूलप्रतिमं प्रति- ष्ठापिता भवति || - नित्यपूजा – देवालयेषु पूजको देवलक इ- त्युच्यते । स प्रायेण ब्राह्मणजातिर्भवति । देवलकोऽतिप्रातः स्नात्वा शुद्धं वासः परिधा- य देवालयं प्रविशेत् | नद्यास्तटाकाद् वा शुद्धं तीर्थं सवाद्यनादम् आनयेत् । तैलेन क्षीरेण चन्दनेन च प्रथमम् अभिषिच्य ततस्तेन तीर्थेन मूलप्रतिमाम् अ- भिषिञ्चेत् । मूलप्रतिमा चेद् दारुमयी सा तीर्थेन प्रो- क्ष्येत केवलम् । अथ वस्त्रेण चन्दनेन भूषणेन माल्येन च ताम् अलंकृत्य नानाविधैः पुष्पाञ्जलिभिरर्चकोऽभ्य- र्चेत् । ततो धूपं दीपांश्च संप्रदर्श्य नैवेद्यं देवाय निवे- दयेत् । नैवेद्यं चान्नम् अन्यो वा धान्यविकारः पायसं वा फलं वा स्यात् । Digitized by Google