पृष्ठम्:भारतानुवर्णनम्.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ रूढ आकृष्यते । रथश्च महान् उत्तुङ्गः परस्सहस्रैर्ज- नैराकर्षणीयो भवति । देवस्य सर्वकैङ्कर्यसाधारणो वाद्योपचार उत्स- वेषु सातिशयो भवति । अपि च यात्रोत्सवे श्वेतच्छ- त्रैश्यामरैश्च देव उपचर्यते । भक्ता मनोहराण्यपदान- गीतानि गायन्तः केचिद् वेदपारायणं वर्तयन्तः केचिद् देवम् अनुगच्छन्ति । सर्वाण्येतानि देवकैङ्कर्याणि यथाविध्यनुष्ठीय- मानानि जनक्षेमाय कल्पन्त इति हिन्दुवो विश्वस- न्ति ॥ ग्रामः. अवरत एको देवालयो ग्रामस्यावश्यकम् अ- ङ्गं भवति । ग्रामेषु गृहाणि पतिशोऽवतिष्ठन्ते । त- त्र ब्राह्मणवीथ्यब्राह्मणवीथी च प्रायेण मिथो न स- ङ्करं प्राप्नुतः । ग्रामेषु दक्षिणोत्तरतो वा पूर्वपश्चिम- तो वा गृहपङ्किरेका भवति, द्वे वा गृहपकी भवतः । तयोरेकस्याः पङ्केरपरा पङ्किरभिमुख्यवतिष्ठते । Digitized by Google