पृष्ठम्:भारतानुवर्णनम्.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ अब्राह्मणवीभ्यां गोपालस्यायस्कारस्य तक्ष्णः कै स्वर्णकारस्य कुलालस्य वाद्यकारस्य तन्तुवायस्य वर्तस्य रजकस्य नापितस्य शौण्डिकस्य च गृहाणि निविशन्ते । चण्डालश्रेणीं तु ग्रामाद् दूरतो वर्तेत । नगरे पुनरेष नियमो न दृश्यते । ग्रामेऽपि क्वचित् क्वचि नानाजातीयानां गृहाणि सङ्कीर्यन्ते । किन्तु तेषां प्रायो मिथः संश्लेषो न भवति । केषुचिद् ग्रामेषु नदी पोषिका भवति; केषु- चित् कुल्या; केषुचित् तटाकाः । केषुचिद् द्वयं त्रयं वा पोषकं भवति । केषुचिद् ग्रामेषु नद्यास्तटाकस्य वाभावेऽपि प्रभूतजलान् कूपान् स्नानपानयोः कृषौ च जना नदीनिर्विशेषम् उपयुञ्जते । आरामाः केदा- राः शाइलाः सिकतिलाश्च प्रदेशा ग्रामेषु प्रायशो दृश्यन्ते । w नानासस्य जातहरितैरनावृतविस्तीर्णैः परिसरो- द्देशैर्न केवलं नेत्रानन्दाय ग्रामः कल्पते; किन्तु नि- Digitized by Google