१४३ कूपमातृकाः, यासु महोत्सानां कूपानां अलैर्घटीय- न्त्रोपनीतैः सस्यानि फलन्ति । काचिद् देवमातृकाः, यासु यथाकालम् अभिवृष्टे पर्जन्ये धान्यानि समृद्ध्य- न्ते; वृष्ट्युंदकैर्वावरुध्य विनियुज्यमानैस्तानि निष्प- द्यन्ते । तास्वेतासु भूमिषु वत्सरस्य द्विः सस्यफलं कर्षका लभन्ते; देवमातृकायां तु भूमौ तत् सकुल्लं- भन्ते । कृषिकर्मठा जना आप्रातरा दिनान्तात् कृ- षिसम्बद्धेषु व्यापारेषु सज्जन्ते । तें हि बीजवापात् प्राग् युक्तवृषैर्युक्तमहिषैर्वा सीरभूमिम् असकृत् कर्ष - न्ति; गोमयादीनां च दोहदानां क्षेपेणोपस्कुर्वन्ति । तस्यां प्ररूढेषु बीजेष्वा परिणामात् कालेकाले जला- पूरणं तदुद्भवांनां कटतृणानां शोधनं परिणामानन्तरं धान्यांनां लवनम् इति व्यापारा भवन्ति । सर्वाम् इमान् व्यापारान् अब्राह्मणाः स्वयम् अनुतिष्ठन्ति, अन्यैरमुष्ठापयन्ति च । ब्राह्मणा अभि जाताश्च तान् अन्यैरनुष्ठापयन्ति केवलम् ॥ Digitized Dipakaded by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/१५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu/page158-932px-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu.jpg)