पृष्ठम्:भारतानुवर्णनम्.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ उच्छुष्काणां कदलीत्वचा सूक्ष्मतन्तुभिर्वस्त्रम् आच्छादनं च दर्शनीयम् आधुनिका वयन्ति । तानीमानि शिल्पानि कासाञ्चिज्जातीनां कुल- विद्या भवन्ति । केचित्तु तानि रुचिवशात् स्वेच्छया कुर्वन्ति ॥ पाणिज्यम्. आ ताम्बूलाद् आ च रत्नाद् भारत पाि ज्यम् उच्चावचं क्रमते । भारतोद्भवं पण्यजातं न के- वलं भारते, युरोपेऽपि किञ्चिद् परिपण्यते । युरोपनि- वृत्तास्तु भावा भारते बहुलं परिपण्यन्ते । ग्रामेष्वापणा अल्पा विरलाच भवन्ति । न- गरेषु तु बहुपण्या अविरलाश्च । केषुचिन्नगरेषु पण्य - वीथिका अनेका दृश्यन्ते । प्रायः पण्यवीथीषु धान्या- पणा वस्त्रापणाश्च पण्यान्तरापणान् अपेक्ष्य सङ्ख्यया- तिरिच्यन्ते । गोधूमाः षष्टिकादिधान्यानां तण्डुला मुद्गा माषाश्चणकाश्च सुभिक्षसमये लघुमूल्याः । तदा ह्येकेन Digitized by Google