पृष्ठम्:भारतानुवर्णनम्.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७ रूप्येण सप्त प्रस्था गोधूमस्य, दश षष्टिकादितण्डुल स्य उपद्वादशा धान्यान्तराणां सुलभा भवन्ति । धान्यं वेसेवारोचिताः पदार्थास्तैलं घृतं वस्त्रं च क्रेतृबाहुल्यात् क्षिप्रविक्रयाणि भवन्ति । अपि च पात्रापणा गन्धापणाः शाकापणाः फलापणाश्च विपणिषु बहुलाः सन्ति । रत्नापणास्तु म हानगरविपणिषु प्रायश उल्लसन्ति । भारतीयेषु वाणिज्यस्थानेषु महत्सु मुख्यं म.. हाम्बापुरम् । तत्र तदुपनगरेषु च वसन्तः पारसीका भारतवणिक्ष्वभ्यर्हिताः । एषां किल पूर्वपुरुषा अष्टा- त्रिंशे वर्षशतके स्वदेशाद् राज्ञा निष्कासिताः सूर्यप- त्तनम् आजग्मुः; वाणिज्यं च क्रमेणाभिवर्धयामासुः ॥ याचकाः. वृद्धा अङ्गविकला रोगिणश्चानाथा याच्या जीवन्ति । अरोगदृढगात्रा अपि जनाः स्वभावशान्ताः वेसवारः=Particular condiment. 'वेसवार उपस्कर' इ- 1. त्यमरः । Digitized by Google