पृष्ठम्:भारतानुवर्णनम्.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ यन्ति । किन्तु वेदाध्यायिनो वेदस्य निगदपठने च- तुराः पर्यवस्यन्ति; न पुनर्वेदस्यार्थ प्रायशो बुध्यन्ते । वेदस्यार्थम् अवगन्तुं शक्ता निगदपाठिनस्तु विरला उपलभ्यन्ते । देश्यभाषाङ्गलभाषयोः पाठालया राजशासने- नोपोद्वेलिता राजकीयाश्च प्रतिग्रामं प्रतिनगरम् उल्लु- सन्ति । संस्कृतपाठालयास्तु भारते राजकीयाः पञ्च- षाः सन्ति; संस्कृतपक्षपातिभिर्धनिकैरुपकल्पिताश्च क तिपये वर्तन्ते । तेषु बालैरध्ययनं सुकरं भवति । सं- स्कृतार्थिनां पाठशाला यद्यपि सङ्ख्यया न पर्याप्ताः, तथापि तेषां समानम् आसन्नं वा ग्रामम् अधिवसद्भ्यः पण्डितेभ्योऽध्येतुं तत्रतत्र किञ्चित् सौकर्यम् अस्ति । - गृहे वृत्तिः– विद्याम् अधीयाना बालाः प्रा- येण रात्रेश्वरमे यामे प्रबुध्यन्ते । अधीतान् पाठान् असकृद् वाचयन्तस्तदर्थम् एकाकिनः ससहाया वा ते चिन्तयन्ति; सूर्योदयात् प्राक् परतो वा बहिर्विह- त्य नद्यां स्त्रान्ति; शीतालवस्तु गृह उष्णोदकेन स्ना- 1. Recognized. Digitzed by Google