पृष्ठम्:भारतानुवर्णनम्.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५ न्ति; सौकर्याभावे देहम् आर्द्रवस्त्रेण केवलम् उद्धर्त- यन्ति । स्नानानन्तरं बालाः पुण्डूं धृत्वा यथोपपन्नम् अनं भुजते; गच्छन्ति च पाठालयम् । उपनीताश्चेद् बाला:, कालेकाले सन्ध्याम् उपास्यैवान्नं भुञ्जते । सायाह्ने बालाः पाठालयाद् विसृष्टाः कन्दुका- दिक्रीडया लङ्घनघावनकरणादिभिर्व्यायामैश्च द्वित्रान् मुहूर्त्तान् नयन्ति । आङ्गलभाषाध्यायिनां क्रीडा आ- डलरीतिमेव प्रायेणानुसरन्ति । ततो रात्रौ भुक्त्वा प्रायेणादशमहोरं पुस्तका- नि वाचयन्ति । दक्षाः केचिद् बाला ईषत्करेषु गृह- कार्येष्वपि व्याप्रियन्ते पठनम् अबाधमानाः । आङ्गलभाषाध्यायिषु बहवो रात्रावत्यल्पमेव समयं स्वपन्ति; आसन्नायां तु परीक्षायां रात्रिम् अ खिलां पुस्तकं वाचयन्ति । तम् एतम् अतिश्रमम् आरोग्यभञ्जकम् इतरभाषाध्यायिनो नोपाददते । प्रबुद्धतराः कुमारा अनध्यायेषु स्थिरम् अ- 1. होरा = Hour. Digitized by Google