१५६ स्थिरं वा समाजं मेलयित्वा तत्र क्षोदक्षमान् विषयान् उपन्यस्यन्ति । अपि च प्रायेण मातापितृभ्यां गृहे बालास्त- था परिशील्यन्ते, यथा तेषाम् ईश्वरभक्तिर्हिन्दुमतश्र- द्धा च जायेत ॥ पण्डितस्य दिनचर्या. संस्कृतपण्डिताः केचित् स्वच्छन्दजीविनः के- चिद् अन्योपजीविनः । उभयेऽपि ते भूयिष्ठम् आचा- रान् स्मार्तान् अनुवर्तन्ते । ते हि ब्राह्मे तदुत्तरे वा मुहूर्त्ते शयनाद् उ- त्तिष्ठन्ति; ईश्वरं कश्चित् क्षणान् ध्यात्वा दिवसकार्य तस्येतिकर्तव्यतां च पर्यालोचयन्ति; ततो ग्रामाद् ब हिर्दूरम् अन्तरं गत्वा कृतहस्तपादशौचा नद्याम् अ- वतरन्ति; अत्वरं च वारिणि समन्त्रकं स्नात्वा शुद्धा- म्बरधारिणः पूर्वसन्ध्याम् उपासते; जप्त्वा गायत्रीम् उदितं सूर्य नमस्कारैरुपस्थाय धृतपुण्ड्रा मन्त्रान् जप- न्ति; अर्वाग् अष्टमहोराया गृहम् आगत्य वेदस्योप- 1 Digitized by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/१७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu/page171-932px-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu.jpg)