पृष्ठम्:भारतानुवर्णनम्.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७ निषदो वा पारायणं तन्वन्ति, उपनिषदं ब्रह्मसूत्रभा- ष्यं वा शिष्यान् अध्यापयन्ति; यञ्चान्यद् अभुक्त्वा- ख्येयं तेऽभिमन्यन्ते भगवद्गीतादिकं, तदपि पाठयन्ति । - दशमहोरायाः परतो माध्याह्निकं कर्म कृत्वा ते देवतार्चनम् आरभन्ते । तत्र सालग्रामे विष्णुं बा- णलिङ्गे शिवं शोणशिलायां गणेशं प्रतिमासुं देवीं स्फटिके चादित्यम् आराधयन्ति यथारुचि । ततो वैश्वदेवं ते विधाय तत्कालसन्निहितेनातिथिना सह दशहरायाः परतो भुञ्जते । 2 ततः कांश्चित् क्षणान् विश्रम्य ते ग्रन्थान् वा यन्ति; आयव्ययौ वा गणयन्ति; द्वित्रहोरा- स्वतीतासु व्याकरणं तर्के मीमांसां काव्यानि चासायं शिष्यान् अध्यापयन्ति । सर्वम् इदम् अध्यापनं प्राय- शो भृतिरहितं भवति । ते हि शिष्याणां शुश्रूषया भक्तिपूर्वया परितुष्यन्ति । पाठालयाधिकृतेष्वपि पण्डि- तेषु केचिद् अभृतकाध्यापनं स्वतन्त्रं गृहे वर्तयन्ति । - 1. An offering to all deitics (made by presenting obla- tions to fire before meals ). 2. Free teaching. Digitized by Google