पृष्ठम्:भारतानुवर्णनम्.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति


अयं १६०० [१] क्रोशान्‌ दीर्घस्त्रिंशतो [२]त्तमांस्तंदर्धा [३]वरांश्च क्रोशान्‌ विस्तीर्णः।

अस्य २३००० [४] पदोन्नतानि शिखराणि पञ्चचत्वारिंशत्‌ सन्ति; विंशतिसहस्रपदोन्नतानि रिखराणि परश्शतानि [५] वर्तन्ते । अस्य तुङ्गतमं शिखरं २९००० [६] पदान्युच्छ्रयते [७] । ईदृग्‌ उन्नतम्‌ अन्यद्‌ गिरिशिखरं लोके न विद्यते ¦

हिमालयस्य दक्षिणे पार्श्वे १६२०० [८] पदेभ्य ऊर्ध्वे देशे हिमसंहतयः [९] कठोराः सन्ति:, उत्तरे पार्श्वे तु १७४०० [१०] पदेभ्य ऊर्ध्वे देशे ताः कठिनाः सन्ति । तासु काश्चिद्‌ एकादशक्रोशदीर्घाः सार्धक्रोशविस्तीर्णाश्च दृश्यन्ते । एता उष्णकाले विलीनाः [११] सत्यो नदीषु वृष्टिं विना जरमभिवर्धयन्ति ।


  1. षट्शताधिकं सहस्रम्
  2. Consisting of at the greatest 300.
  3. Consisting of at the least 150.
  4. त्रयोविंशतिसहस्रपदोन्नतानि.
  5. More than & hundred.
  6. एकोनत्रिंशत्सहस्राणि.
  7. Feet.
  8. द्विशताधिकषोडशसहस्रेभ्यः
  9. Masses of snow
  10. चतुश्शताधिकसप्तदशसहस्रेभ्यः
  11. Melted.