पृष्ठम्:भारतानुवर्णनम्.djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

 सुमाली -- 'सुलिमान्' [१] इति व्यपदिश्यमानः 'सुमाली' नाम पर्वतः सिन्धुनदस्य पश्चिमतीरे तिष्ठति । अस्माद् उत्तरतः पञ्चनदे [२] रुमण्वान् [३] नाम गिरिरस्ति । रुमण्वतो रौमक इत्यपि संज्ञा । बहोः कालात् प्रभृति जना अस्माद् गिरेर्लवणं खण्डशो निर्भिद्य गृह्णन्ति ॥

 अर्बुदपर्वतः–'अर्बुदपर्वतः' [४] सिन्धुगङ्गयोर्मध्ये तिष्ठति । अयं विन्ध्यस्य पश्चिमान्ताद् 'अजमीरम्' [५] उल्लङ्घयाभीन्द्रप्रस्थम् [६] अतिदूरम् गच्छति । आरोग्यसुखार्थिनां वासयोग्यम् 'आबु' [७] इति स्थानम् अत्रास्ति । अत्र जैनानां देवालया बहवो वर्तन्ते ॥

 विन्ध्यः -- 'विन्ध्यगिरि’र्गुर्जरदेशस्य परिस-[८]


  1. 'Suliman'. This seems to be a modified form of सुमा- लिन् treated by the commentator of विष्णुपुराण.
  2. पञ्चनद=Punjab.
  3. Salt range. This is identified with the Greek ‘Oromanos’ (Alexander) and Roumaka (Hewnthsang). The words रुमण्वान् and रौमक are respectively derived from the radicals लवण and रुमा (salt mine).
  4. Aravalli mountains
  5. Ajmere.
  6. Towards इन्द्रप्रस्थ ( Delhi ).
  7. Mt. ’Abu’
  8. Of the desert lying near.