पृष्ठम्:भारतानुवर्णनम्.djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

रमरो: समीपात् प्रस्थाय गङ्गाया अन्तिके विश्राम्यति । अयं ६०० [१]कोशान् आयतः समुद्रोपरितलात् [२] २५००[३] पदानाम् उपरि तिष्ठति ।  अत्र निबिडानि वनानि सन्ति । अस्य वालुकोपलप्रायेषु [४] शर्कराप्रायेषु [५] चाधित्यकाभागेषु [६] न वृक्षा प्ररोहन्ति ॥

 ऋक्षपर्वतः – 'ऋक्षपर्वतो' विन्ध्याद् दक्षिणतः ५० [७] क्रोशान् आयतः । अस्य शिखराणि द्विशतपदपर्यन्तम् उन्नमन्ति । अयं 'विन्ध्यपाद' इत्युच्यते ॥  पश्चिमपर्वतश्रेणी [८]– 'पश्चिमपर्वतश्रेणी ' क्वचित् स्थले परं पञ्चविंशतिं क्रोशान् विच्छिद्य ४३० [९] क्रोशान् अनुसमुद्रवेलं [१०] गच्छति । अस्या औन्नत्यं यथादक्षिणम् [११] अधिकं दृश्यते । अस्याः परमम् [१२] औन्नत्यं ७००० [१३] पदानि ।


  1. षट् शतानि.
  2. समुद्रोपरितलम् = Sea level.
  3. पञ्चशताधिकद्विसहस्रपदानाम्
  4. Abounding in sandstone.
  5. Gravelly.
  6. In tracts of high land.
  7. पञ्चाशतम्.
  8. Western Ghats.
  9. त्रिंशदधिकानि चतुश्शतानि.
  10. Along the sea-coast.
  11. South to south.
  12. Extreme.
  13. सप्त सहस्राणि.