पृष्ठम्:भारतानुवर्णनम्.djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

 अस्यां 'सह्यो' 'नीलगिरिः' [१]'मलयो' 'महेन्द्र' इत्याद्याः पर्वता निविशन्ते । नीलगिरेरुद्देशा वसतिसुखे प्रसिद्धाः ।

 एषा पर्वतश्रेणी सर्वतो वृक्षाणाम् ओषधीनां च सम्पदा चक्षुषोरमितम् आनन्दं जनयति । पश्चिमा चेयं सीमा दक्षिणापथमालस्य [२]

 पूर्वपर्वतश्रेणी– 'पूर्वपर्वतश्रेणी' [३] दक्षिणापथमालस्य पूर्वा सीमा भवति । एषा न केवलं तुङ्गतायां, प्रायेण सर्वेषु गुणेषु पश्चिमपर्वतश्रेण्या हीयते ।

 उत्तरतो महेन्द्रमाली दक्षिणतो दर्दरश्च पूर्वपर्वतश्रेण्याम् अन्तर्गतौ ॥

 अन्ये पर्वताः – त एते मुख्याः पर्वता निर्दिष्टाः । अन्येऽपि तु पर्वता बहवो भारते तिष्ठन्ति ।

 अपिच 'हिन्दुकुष्' इति यः पर्वतो व्यपदिश्यते, स भारताद् बहिरवतिष्ठते । अस्य [४] 'निषेध' [५]

  1. Nilgiri hills
  2. Of the table-land of Deccan.
  3. Eastern Ghats.
  4. पर्वतस्य
  5. Paropanishos of the Greeks.