पृष्ठम्:भारतानुवर्णनम्.djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

११


मालये 'गङ्गावताराद्' [१] आविर्भवति । तत इयम् 'अलकनन्दया' [२]समानप्रभवया समम् ऐक्यं प्राप्नोति । अथ सेवालिपर्वतस्य [३] सानौ लुठन्ती हरिद्वारम् [४] अतीत्योदारगम्भीरेण स्रोतसा वहति ।

 क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो [५] 'रामगङ्गा' दक्षिणतः [६] 'काली' च सङ्गतं प्राप्नुतः ।

 अस्याः पोषकनदीषु [७] महत्तमा 'यमुना' [८] गङ्गावातारसमीपाद् 'यमुनावताराद्' [९] आविर्भवति । सा ‘चर्मण्वतीं' [१०] 'सिन्धुनदीं' [११] 'वेत्रावतीं' Betwa River. ‘कर्णावतीं [१२] च दक्षिणत आदाय प्रयागे [१३] गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' [१४] , द्वितीयां 'पारा' [१५], तृतीयां 'दशार्णा' [१६] च पुष्णन्ति ।


  1. From Gangotri.
  2. अलकनन्दा = River Alakananda.
  3. सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७ पाणि.) गणे पठितः.
  4. Hardwar.
  5. On the left.
  6. On the right.
  7. Among the tributaries.
  8. Jumna River.
  9. From Jumnotri.
  10. Chambal River.
  11. Sindh River.
  12. Ken River.
  13. At Allahabad.
  14. Banas River.
  15. Parbati River.
  16. Dhasan River.