एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
प्रयागतो गङ्गा पूर्वाभिमुखं प्रवहन्ती 'गोमतीं’ [१] ‘तमसां’ [२] शारदायुक्तां [३] 'सरयूं’ [४] ‘गण्डकीं' [५] ’कौशिकीं' [६] च वामतो, दक्षिणतः 'शोणं' [७] 'फल्गुनीं' चोपादत्ते । तत्र शारदा सरयूर्गण्डकी कौशिकी च हिमवत उत्पद्यन्ते । शोणो मेकलप्रदेशाद् [८] उत्पद्य कैर्मेंदु [९] रगिरेरुपत्यकया [१०] प्रवहति । अयं 'हिरण्यबाहुः' इत्यप्याख्यायते ।
अनन्तरं गङ्गा दक्षिणपूर्वया दिशा वहन्ती ब्रह्मपुत्रनदं [११] स्वीकृत्य बहुभिर्मुखैर्वङ्गमहोदधिम् आविशति ।
अस्या दैर्ध्यं सार्घसहस्रक्रोशासन्नं [१२] सम्भाव्यते । मुखात् प्रभृति आहरिद्वारम् अस्यां महानौः [१३] सञ्चरति ।
- ↑ Gumti River.
- ↑ Tons River.
- ↑ Joined with Sarda River.
- ↑ Gogra River.
- ↑ Gandak River.
- ↑ Kusi River.
- ↑ Son River.
- ↑ From a part of Amarakantak (included in the Vindhya Mountains).
- ↑ Of the Kaimur range कैर्मेदुरशब्दः सिन्ध्वादि (४-३-९३ पाणि.) गणे पठितः.
- ↑ उपत्यका = Land at the foot.
- ↑ Brahmaputra River.
- ↑ Near 1500 miles.
- ↑ A ship.