पृष्ठम्:भारतानुवर्णनम्.djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३


इयं पश्चिमोत्तर[१]देशेऽयोध्या[२]विषये वङ्गदेशे च स्यन्दते [३]

 लौहित्यनदः – अस्ति कैलासात पूर्वतो ‘लोहितं' नाम महासरः । तस्माद् नदो 'लौहित्यो' नाम प्रभवति । अयं 'ब्रह्मपुत्र' इति नामान्तरं वहति ।

 एष सहस्रं क्रोशान् पूर्वाभिमुखं गच्छति । ततो भारतं प्रविश्य प्रथमम् अभिदक्षिणपश्चिमम् अनन्तरम् अभिदक्षिणं प्रवहन् गङ्गामुखेन संसृज्य समुद्रम् अवतरति । अनेन 'करतोया' [४] मिलति ।

 अस्य दैर्ध्य १८०० [५] क्रोशान् व्याप्नोति । अस्मिन् ८०० [६] क्रोशान् अग्निमहानौः [७]सञ्चरति ॥

 सिन्धुनदः—'सिन्धुनदः' कैलासात् प्रभवति । एष प्रथमं हाटकमार्गेण [८] पश्चिमोत्तराभिमुखः


  1. पश्चिमोत्तरदेशः=North west Provinces but called now United Provinces.
  2. अयोध्याविषयः=Oudh.
  3. Flows.
  4. Karotya River.
  5. अष्टशताधिकं सहस्रम्.
  6. अष्ट शतानि.
  7. Steamer.
  8. हाटकं = Laddak.