पृष्ठम्:भारतानुवर्णनम्.djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६


 लवणी- -’लूनी’ इति व्यपदिश्यमाना ’लवणी' [१] नाम नदी अजमीरासन्नाद्‌ अर्बुदस्य पश्चिमभागात्‌ प्रभवति । तस्य गिरेर्दक्षिणार्धाद्‌ उद्भूतैः प्रस्रवणै[२] रियं परिवर्ध्यमाना कच्छदेशे[३] समुद्रम्‌ आविशति । अस्या जलम्‌ अवर्षासु लवणरसं भवति ॥

 ऐरावती--’ऐरावती’ [४] तिबेत[५]शब्दितस्य हिमवदुत्तरदेरास्य दक्षिणपर्वतश्चेण्या आविर्भूय भर्मदेशमार्गेणाभिदक्षिणं प्रवहन्ती पूर्वसमुद्रेण संयुज्यते ॥

 नर्मदा--’नर्मदा’ विन्ध्यस्य पूर्वभागेनोपश्लिष्टाद्‌ ’अमरकण्टक’ [६] इति प्रसिद्धाद्‌ मेकलगिरेराविर्भवति; विन्ध्यस्य दक्षिणपार्श्वे च बहुभिर्निर्झरसम्पातैः पश्चिममुखी प्रवहति । एषा जाबालपुरम्‌ [७] अतीत्य चन्द्रकान्त[८]शिलाप्राये दुर्गमे स्रोतोमार्गे रामणीयकम्‌ आसेचनकं[९] परिगृह्णाति । ततो दूरम्‌ इयम्‌ अभि-


  1. Loni River.
  2. प्रस्रवणानि=Streams.
  3. At Cutch.
  4. Irawady River.
  5. Named as Tibet.
  6. Amarakantak.
  7. Jabalpur.
  8. Abounding in marble-stone.
  9. Charming.