पृष्ठम्:भारतानुवर्णनम्.djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७


पश्चिमं स्यन्दमानापराब्धिना समागच्छति । इयं ८०० क्रोशान् दीर्घा भवति ॥

 तापी -- नाम्ना 'तापी' 'तपती' वा नद्यृक्षपर्वतात् प्रभवन्ती पश्चिमाब्धिना युज्यते । एषा ४६० क्रोशान् स्यन्दते ।

 महानदी -- 'महानदी' रैपुरप्रदेशाद् उत्पद्य प्रथमम् उत्तरपूर्वं, ततः पूर्वं, ततो दक्षिणं, तत उत्कलेषु पूर्वं च पन्थानम् आश्रयन्ती पूर्वाब्धिना संयुज्यते ॥

 गोदावरी - पश्चिमपर्वतश्रेण्याः पूर्वसानौ 'नासिका' इति प्रसिद्धात् पञ्चवटीवनाद् उत्तरतो गोदावरी प्रादुर्भवति । पूर्वाभिमुखं च सा प्रवहन्ती वङ्गसमुद्रेण सङ्गच्छते । अस्याः स्रोतः ९०० क्रोशान् स्यन्दते ॥


९ 1. अष्ट शतानि. 2. Tapti River. 3. षष्ट्यधिकानि चतुश्शतानि. 4. Mahanadi River. 5. From Raipur. 6. At Orissa. 7. Nasik. 8. Godaveri River. 9. नव शतानि.