पृष्ठम्:भारतानुवर्णनम्.djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८

 कृष्णवेणी-'[]कृष्णवेणी' अपरपर्वतभागाद् ’[]महाबलीश्वरात्' प्रस्थाय '[]भीमरथीं' '[]तुङ्गभद्रां' च गृहीत्वा महोदधिम् आविशति । अस्याः स्रोतः []७५० क्रोशान् वहति । एषा 'कृष्णा' इत्युच्यते ॥

 पिनाकिनी –'[]पिनाकिनी' '[]महिषपुरस्य' पूर्वतो []नन्दिदुर्गात् प्रस्थायोत्तरेण पूर्वेण च पथा क्रमशः प्रवहन्ती वङ्गसमुद्रेण सङ्गमं प्राप्नोति । अस्त्यन्या पिनाकिनी, यास्या []दक्षिणाहि प्रवहन्ती पूर्वाब्धिम् आविशति ॥

 [१०]क्षीरनदी —–नन्दिदुर्गस्यादूरे ‘क्षीरनद्याः' प्रभवो वर्तते । [११]चेन्नपुरस्य पश्चिमतः पूर्वपर्वतश्रेणीभागाद् यानि प्रस्रवणानि स्रवन्ति, तैरेषा परिपुष्टा समुद्रम् अवतरति ॥


  1. Krishna River.
  2. From Mahableswar.
  3. Bhima River.
  4. Tungabhadra River.
  5. पञ्चाशदधिकानि सप्त शतानि.
  6. Pennar River.
  7. Of Mysore.
  8. नन्दिदुर्गः=Nandidurg hill.
  9. Far to the south.
  10. Palar River.
  11. चेन्नपुरम् = Madras.