पृष्ठम्:भारतानुवर्णनम्.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कावेरी -- 'कावेरी' सह्यपर्वताद् आविर्भूय प्रथमं पूर्वाभिमुखी ततो दक्षिणाभिमुखी पुनः पूर्वाभि- मुखी च स्यन्दते । उपश्रीरङ्गपत्तनम् एषा द्विधात्मा- नं कृत्वा पश्चाद् एकीभवति; अन्ते च बहुभिर्मुखैः पूर्वाब्धि प्रविशति । एतदीया स्रोतस्सरणिः ४७५ क्रोशान् दीर्घा भवति ॥ वेगवती –' वैगै' इति प्रसिद्धा 'वेगवती' मलयपर्वताद् उद्भूय मेधुरापुरद्वारेण पूर्वतो गच्छति । इयम् अन्तर्वाहिनी । अतोऽस्यां प्रायो वर्षास्वेव स्रो- तो लक्ष्यं भवति । आराच्च रामसेतोः समुद्रेणैषा स- ङ्गच्छते । इमां 'कृतमाला' इति 'शिवगङ्गा' इति च वदन्ति ॥ ताम्रपर्णी –'ताम्रपर्णी' मलयपर्वताद् आ- विभूय पूर्वदिशा प्रवहन्ती पूर्वाब्धिना संयुज्यते । अ- 1. Kaveri River. 2. Near Srirangapatam. 3. पञ्चसप्त- त्यधिकानिं चतुश्शतानि 4. Vaigai River. 5. Through Madura. 6. रामसेतु: = Adam's bridge. 7. Tambrapurni River. Digitized by Google