पृष्ठम्:भारतानुवर्णनम्.djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०


नया सङ्गतस्य महोदघेस्तलेषु तत इतो []मौक्तिकान्युपद्यन्ते ॥

 अन्या नद्यः – तदेवं मुख्या नद्य उपवर्णिताः । आसाम् []उपनद्योऽन्याश्च नद्यो भारते परश्शताः स्यन्दन्ते । अपि च । भारताद् बहिः पश्चिमवाहिनी या नदी []'ओक्सुस्' इति प्रथते, सा विष्णुपुराणोक्ता वक्षुः सम्भाव्यते ॥

सरांसि.

 []कश्मीरदेशे []राजस्थाने []कच्छदेश []उत्कलेषु च महासरांसि वर्तन्ते ॥


[]जनपदा []नगराणि च.

 कश्मीराः --' कश्मीर’नामा जनपदो भारतस्योत्तरसीमायाम् अस्ति । अत्र [१०]कुंङ्कुमं तथा भूयि-


  1. Pearls.
  2. Tributaries.
  3. Oxus River.
  4. In Kashmir (Wala Lake).
  5. In Rajputana (Sambhar = शाकम्भरी Lake).
  6. In Cutch (Ran of Cutch ).
  7. In Orissa (Chilka Lake).
  8. Countries.
  9. Towns.
  10. Saffron.