पृष्ठम्:भारतानुवर्णनम्.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ 'तैक्षशिला' 'मूलस्थानम्' इति प्रसिद्धानि नगरा- ण्यत्र वर्तन्ते ॥ - ब्रह्मावर्तः - दृषद्वत्याः सरस्वत्याश्चान्तराल- देशो 'ब्रह्मावर्त' उच्यते । अस्य ब्रह्मावर्तसंज्ञा ब्राह्म- णानाम् अत्र पुनः पुनर्जननाद् वा समन्ताद् वर्तनाद् वा सिद्धा । - पञ्चनदवासाद् अनन्तरम् अत्रैव जरत्तमार्या- णां वासोऽभवत् ॥ ब्रह्मर्षिदेशः -- ब्रह्मावर्ताद् अनन्तरो 'ब्रह्म- र्षिदेश' उच्यते । अत्र 'कुरुक्षेत्रं' ‘पञ्चालाः' ‘शूर- सेना' 'मत्स्या'चान्तर्भवन्ति ॥ कुरुक्षेत्रं – वामतः सरस्वत्या बहुकोशविस्ती- र्णा या समभूमिरस्ति, तत् 'कुरुक्षेत्रम्' इति वदन्ति; 1. Taxilla. 2. Multan. 3. 'सरस्वती दृषद्वत्योर्देक्नद्योर्यद- न्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ ' (मनु:). 4. जर- चमार्याः= Aryan fore-fathers. 5 'कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशः स्याद् ब्रह्मावर्तादनन्तरः ॥' (मनुः). 6. Thaneswar. Digitzed by Google