पृष्ठम्:भारतानुवर्णनम्.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ देशः । स 'दक्षिणपञ्चाला: ' ' उत्तरपञ्चालाः' इति द्विधा विभक्त आचर्मण्वत्या वितत आसीत् । कान्य- कुब्जम् अत्रान्तर्भूतम् । इमं देशं पाण्डवानां श्वशुरो द्रुपदः पालयामास । उत्तरपञ्चालेषु 'अहिच्छत्रा' राजधानी; दक्षिणपञ्चालेषु 'काम्पिल्यम् ' । हरिद्वा रात् पूर्वतोऽलकनन्दाया वामतो ब्रह्मपुरराज्यम अस्ति | शूरसेना:--'शूरसेनदेश: ' श्रीकृष्णस्य जे- न्मस्थानम् । ‘गोकुलं’ ‘बृन्दावनं' 'मैथुरा' 'अग्र- वणम्' इति नगराण्यनेन सम्बद्धानि । श्रीकृष्णस्य मातुलस्तेन निहतः कंसो नाम राजा मथुराम् इमां राजधानीं चकार ॥ मत्स्याः --'मत्स्यदेशो' विराटस्य राज्ञो रा- ज्यं, यत्र पाण्डवा वर्षमेकम् अज्ञातवासम् अकुर्वन् । ‘मच्छरि' इति प्रसिद्धा मेत्स्यपुरी तस्य राजधानी सम्भाव्यते ॥ 5. 1. Kanouj. 2. Father-in-law. 3. Kampil. 4. Kuma Birth place. 6. Brindavan. 7. Muttra. 8. Agra. 9. Ma chheri. (Alwar state). Digitized by Google .