पृष्ठम्:भारतानुवर्णनम्.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ अङ्गाः -- मगधदेशात पूर्वतोऽङ्गदेशः । अत्र प्रधाननगरी 'चम्पा ' भगलपुरसमीपेऽस्ति । अत्र रा- मायणप्रसिद्धो रोमपादो भारतप्रसिद्धः कर्णश्च राजा बभूव ॥ सुह्मा:-- स 'सुह्मदेशः', यत्र 'केपिशानद्याः ' दक्षिणतीरे निविष्टा 'ताम्रलिप्ती' राजधानी बभूव ॥ वङ्गाः - - सुह्मदेशात् पूर्वतो 'वङ्गदेशोऽस्ति, यत्राद्यत्वे 'कालिघट्टपुरी' भारतचक्रवर्तिनो भारत- राजधानी प्रख्यायते । अस्य 'समतटम्' इत्यपि सं- ज्ञा । अत्र गङ्गा सागरेण समागमं प्राप्नोति । अत्र 'कर्णसुवर्ण' नाम प्रधाननगरम् आसीत् ॥ 6 पुण्ड्राः -- बङ्गदेशाद् उत्तर: ' पुंण्ड्रदेशः' । अयम् 'गौडदेश' इत्यप्याख्यातः ॥ कामरूपम् – वङ्गदेशात् पूर्वोत्तरः 'कामरूपं ' नाम देशोऽस्ति, यत्र हर्षवर्धनस्य मित्रं भास्करवर्मा 1. Bhagalpur. 2. कपिशानदी - Kossya. 3. Tamiook. 4. Caleutta. 5. Kansona. 6. Northern Bengal. 7. अयं हर्ष- चरिते वर्णितः. Digfized by Google