पृष्ठम्:भारतानुवर्णनम्.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९


मालवाः – स []'मालवदेशो ', यत्र []उज्जयिनी []दशपुरं च नगरे; []धारा च । अस्य 'अविन्तिदेश’ इति नामान्तरम् अस्ति । उज्जयिनी चावन्तिपुरीत्युच्यते । उज्जयिनी पुरा ग्रहपरीक्षकैः []खमध्यस्थानं कल्पितम् आसीत् ।

उज्जयिन्यां प्रख्यातं शिवक्षेत्रम् अस्ति, यत्र देवो महाकालनाम्ना प्रथते ॥

दशार्णाः - - मालवानां पूर्वं भागं दशार्णदेशं वदन्ति । अस्य राजधानी वेत्रवत्यास्तीरे []'विदिशा ' इति नाम्ना बभूव ॥

सौराष्ट्राः –' सौराष्ट्रदेशो' मालवदेशात् पश्चिमतोऽस्ति । अयम् अद्यत्वे []'गुर्जरदेश' इत्युच्यते । इदं श्रीकृष्णस्य राज्यम् आसीत् । अत्र 'द्वारका' नाम नगरी विद्यते । अस्या दक्षिणपूर्वत उपशतक्रोशदूरे पुरातनी द्वारकापुरी आसीत् । इयं 'द्वारावती' इत्यपि कथ्यते । इदं नगरं देशस्यानर्तसंज्ञया 'आनर्तनगरम्' इत्यप्याख्यातं बभूव ।


  1. Malwa.
  2. Oujain.
  3. Dholpur, on the Chambal.
  4. Dhar.
  5. Meridian.
  6. Bilsa.
  7. Guzarat.